॥ मङ्गलाचरण ॥
“सिद्धं सुसिद्धं श्राद्धं”
यस्याङ्के च विभाति शैलसुतयादेवो जगत्कारणम्
विघ्नानां शमनं नमामि सततं लम्बोदरं श्यामलम्।
सिद्धिं यः कुरुते स्मृतोऽपि सहसा कार्येषु सर्वार्थदः
तं देवं गिरिधारि-मानस-चरं विघ्नेशमुच्चैर्भजे ॥१॥

लक्ष्मीकान्तमजं निरस्तकुहकं विश्वेश्वरं शाश्वतं,
ध्येयं योगिभिरादिपूरुषमहो संसारसिन्धूत्तरम्।
दाता यः परमस्य सद्गतिविधेः प्रह्लादकारी हरिः,
वन्दे तत्पदपङ्कजं हृतमलं विष्णोः पवित्रं सदा ॥२॥

श्वेताब्जे विहरन्त्यगाध-मतिदा वाग्देवता भारती,
गङ्गा या सुरदीर्घिका त्रिपथगा पापान्धकार-च्छिदा।
वाणी-जाह्नवि-पाद-पद्मममलं ध्यात्वा मुदा सर्वदा,
ग्रन्थस्यास्य सुसिद्धये हि मनसा याचे प्रसीदन्तु मे ॥३॥

ये लोकाः पितरः स्वधा-रति-रताः स्वर्गे स्थिताः सर्वदा
पुत्राणां शुभमङ्गलाशिषमुदा कुर्वन्ति ते पावनम्।
श्राद्धेनात्र सुतर्पिताः प्रमुदिता यच्छन्ति सायुज्यताम्
तान्वन्दे गिरिधारि-नामक-बुधः श्रेष्ठान् पितॄन् सादरम् ॥४॥

श्राद्धं कर्म सुदुर्लभं कलि-मले सम्मोहितैः मानवैः
पद्धत्या नियमेन सुष्ठु विधिना सिद्धं भवेत्सर्वदा।
तस्माद् वै द्विज-तुष्टये च सुलभं बोधं विधातुं मुदा
तन्वेऽहं सुविचारितं सुविमलं श्राद्धस्य मार्गं परम् ॥५॥

मन्त्रौघस्य परम्परां सुविमलां शास्त्रोक्तरीतिं पराम्,
दृष्ट्वा वेद-पुराण-वाक्य-निवहं संगृह्य यत्नेन च।
“सिद्धं वै च सुसिद्ध-श्राद्ध-पद्धतिः” नाम्ना कृता निर्मला,
सज्जनैः परिगृह्यतां हृदि सदा कल्याण-सौख्यप्रदा ॥६॥

यावच्चन्द्र-दिवाकरौ च गगनं गङ्गा-मही-मण्डलं
तावद् राजतु पद्धतिः सुविमला सच्छास्त्र-सिद्धा भुवि।
गीर्वाणैः पितृभिश्च तुष्ट-मनसा देयः शुभः सद्गुणः
नारायण-पदारविन्द-युगले ग्रन्थो मयाऽयं कृतः ॥७॥